Please enable JavaScript.
Coggle requires JavaScript to display documents.
जीवपरिच्छेदः - २ (मोक्षहेतुनिरूपणम् (मोक्षहेतुः न केवलं तत्त्वज्ञानम्…
जीवपरिच्छेदः - २
मोक्षहेतुनिरूपणम्
मोक्षहेतुः कः ?
भक्तिरूपापन्न-उपासन-
-वेदन-
-ध्यानादि-शब्दवाच्यः
असकृदावृत्त-
5 -आप्रयाणात् अन्वहम् अनुवर्तमानः
ज्ञानविशेषः
तथा च सूत्राणि -
'आवृत्तिरसकृदुपदेशात्'
आप्रयाणात् तत्रापि हि दृष्टम्
मोक्षहेतुः न केवलं तत्त्वज्ञानम्
तस्य अध्ययनविधिसिद्ध-
-साङ्गसशिरस्क-अध्ययन
-गृहीत-अक्षरराशि-विशेष
निरतिशय-पुरुषार्थ-साधनार्थ-निर्णय-
रागप्राप्त-श्रवणमात्रेण
निष्पन्नस्य-अविधेयत्वात्
तावति सिद्धेऽपि मोक्ष-अदर्शनात् च
नापि श्रवण-मनन-उपासन-निर्धूतभेदवासनस्य वाक्यमात्रजन्यः साक्षात्कारि इति वाच्यम् -
तस्य अन्योन्याश्रय-
-विरोधादिदुष्टत्वात्
असत्यात् सत्यप्रतिपत्तिश्च सर्वथा अनुपपन्ना -
सत्यधीर्मम सत्येन तवासत्यादसत्यधीः । सत्यादसत्यधीर्वेति नासत्यात्सत्यधीर्भवेत् ॥
कर्मापि न केवलं ज्ञानसमुच्चितं वा मुक्तिहेतुः
वेदनमेव विधायोपायान्तरनिषेधात्
तदङ्गतया कर्मानुष्ठानं न विरोधः
रजस्तमोमूलभूत-सांसारिक-पुण्यपापरूप-प्राचीनकर्म-निर्मथन-कृत-चित्तशुद्धिद्वारेण हि तदुपयोगः
एतेन विशिष्ट-देश-वास-व्रतविशेष-वैष्णवसमाश्रयादेः ज्ञानयोग-कर्मयोगयोः परम्परया मोक्षहेतुत्वम् इत्यपि सिद्धम्
यजमानेन सह पश्वादीनां स्वर्गादिगमनवद्वा मोक्षसिद्धिः - 'यजमानेन सहिताः स्वर्गं यान्ति नराधिप' इति महाभारतोक्तिः
संन्यासस्तु महाभागो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥
इति ज्ञानयोगादपि कर्मयोगस्य शीघ्रकारित्वं ,
कर्मयोगात् ज्ञानयोगस्य दुष्प्रापत्वं न प्रतिपादितम्
द्वयोरपि च भक्त्यङ्गत्वं बहुषु प्रदेशेषु अभिहितम्
भक्तियोगः एव परमात्मप्राप्त्युपायभूतः
तदशक्तस्य तद्भक्तियोगसिध्यर्थम् आत्मावलोअनम् अपेक्षितम्
आत्मावलोकनस्य ज्ञानयोगकर्मयोगौ द्वौ पृथक् उपायौ ।
ज्ञानयोगः स्वात्मावलोकने अन्तरङ्गः, स च दुष्करः
तदधिकारिणः तुल्यफलः कर्मयोग एव कार्यः
तदधिकारिणः अपि लोकसंग्रहार्थं कर्मयोग एव कार्यः
अशक्तस्य ज्ञानयोगशक्तिं कर्मयोग एव उत्पादयति
तदा कर्मयोगं परित्यज्य ज्ञानयोमनुष्ठितोऽपि न दोषः
इमौ च योगौ कामनाभेदेन कस्यचित् कैवल्यमात्रसाधकौ, यथा भगवदुपासनमेव कस्यचित् ऐश्वर्यादिकं साधयति
पुण्यपापरूपकर्मतारतम्येन शक्त्यशक्तिकामनादिरारतम्यमिति न कश्चिद्दोषः
1a. जीवानां परस्पर-भिन्नत्वम्
अयम् आत्मा सौभर्यादिक्षेत्र-व्यतिरिक्तेषु प्रतिक्षेत्रं भिन्नः
स्मृति-अनुभव-सुखदुःख-करण-प्रयत्नादि-प्रतिनियमात्
प्रमाणाः -
न्यायसूत्रे - नानात्मनो व्यवस्थातः
साङ्ख्यैः उक्तम् - जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तैश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥
प्रमाणवाक्येषु जीवाद्वैत-वचनानां समर्थनम्
जीवाद्वैतवचनानि प्रकारैक्यविषयाणि
प्राकारैक्ये अपि ह्येकादि शब्दाः प्रयुज्यते ।
अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः ।
एकोक्तिरपृथक्सिद्धेर्देशकालदशादिभिः ॥
निर्विशेष-आत्मैक्यवादिनः बन्ध-मोक्षयोः अविशेषः प्रसज्यते -
भ्रान्त्या सर्वसमुच्छेदे नोच्छेदस्तत्त्वतो भवेत् ।
प्रमया त्वपसिद्धान्ताद्वैतभङ्गादिसंभवः ॥
सर्वजीवानां स्वरूपतः साम्यम्, मुक्तिदशायां गुणतः अपि साम्यमिति श्रुतिसिद्धम् ।
जीवभेदनिषेधवचनानि प्रामाणिक-स्वरूप-व्यतिरिक्त-देहात्माभिमान-निबन्धन-देवत्वादि-भेद-निषेध-वाक्यानि
देवत्वादि निषेधेन तेषाम् ऐकार्थम् उचितम्
1b. जीवानाम् ईश्वरात् भिन्नत्वम्
'ब्रह्म वेद ब्रह्मैव भवति' इत्यादि वाक्यानि ब्रह्मतादात्म्यसूचकानि । मुक्तब्रह्मणः तादात्म्यं शरीर-शरीरि-भावात्
न्यायसुदर्शने उकम् - 'एव शब्दः साम्यवाची'
'साम्ये चैव' इति निघण्टु उक्तेः
'वैष्णवं वामनमालभेत, स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकान् अभिजयति' इत्यत्र विष्णुरेव - विष्णु इव इत्यर्थः
नहि अत्र विष्णुरेव भवति इति विवक्षितम्, स्पर्धमानस्य पशुयागेन तदयोगात्
ऐहिकं फलं हि शत्रुजयादि
भक्तिनिरूपणम्
महनीयविषये प्रीतिः भक्तिः
स एव अवस्था भेदात् परभक्त्यादिभेदं भजते
भक्तिः सत्-अक्षर-मधु-दहर-भूम-वैश्वानरादि-विद्या भेदात् बहुधा भाष्ये गुणोपसंहारपादे निपुणम् अनुसन्धेया
एवं चातुरात्म्योपासनरूपा अपि भक्तयः सद्विद्यादिभेदवत् अङ्गीकार्याः, प्रमाण-सिद्धत्व-नैरपेक्ष्याद्यविशेषात्
भक्तियोग-अनुष्ठान-अधिकारिनः -
एताः सर्वाः तत्तत् शास्त्रप्रतिपादित-तत्तत् वर्णाश्रमशर्मनिष्ठ-त्रैवर्णिक-मनुष्य-देवासुरादिसाध्याः
ननु गोपिकादेरपि मोक्षः श्रूयते, तत्कथं त्रैवर्णिकत्वनियमः?
नहि तेषां तत् शरीरेषु एव उपायानुष्ठानम्, किन्तु प्राचीनेषु एव ब्राह्मणादिजन्मसु
प्रागेव प्राप्तोपायानामपि तेषां प्रारब्धकर्मविशेषादिना निकृष्टशरीरप्रवेशः
अन्तिमशरीरं तु यत्किमपि इति न दोषः, प्रारब्धौ अधिकत्वात् बन्धस्य
एवं विदुरादयश्च भवान्तरीयसंस्कारोद्बोध-जनित-ज्ञानेन इति न अपशूद्राधिकरण-विरोधः
स्त्री-विधुराणामपि जप-उपवासादि-अङ्गाधिकृतानां ब्रह्मविद्या-अधिकारो अस्ति
अनाश्रमत्वात् आश्रमित्वमेव ज्याय इति विशेषः
नैष्ठिकादिपरिभ्रष्टानां तु अनधिकार एव, तथा स्मृतेः शिष्टबहिष्कारादेः च
कृतप्रायश्चित्तानामपि तेषां ब्रह्मविद्याधिकारो नास्ति
स्तुति-नमस्कारादिषु तत्संबन्धात् भक्तिशब्दः उपचारतः